Category: Uncategorized
-
श्री ललिता सहस्रनाम स्तोत्रं अगस्त्य उवाच अश्वानन महाबुद्धे सर्वशास्त्रविशारद । कथितं ललितादेव्याः चरितं परमाद्भुतम् ॥ १॥ पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् । भण्डासुरवधश्चैव विस्तरेण त्वचोदितः ॥ २॥ वर्णितं श्रीपुरं चापि महाविभवविस्तरम् । श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३॥ षोढान्यासादयो देव्याः न्यासखण्डे समीरिताः । अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४॥ महायागाक्रमश्चापि पूजाखण्डे समीरिताः । पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५॥…