SriVidyaMaharnava

Jagat Yajñena Trupyatu

श्री ललिता सहस्रनाम स्तोत्रं

अगस्त्य उवाच

अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।

कथितं ललितादेव्याः चरितं परमाद्भुतम् ॥ १॥

पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् ।

भण्डासुरवधश्चैव विस्तरेण त्वचोदितः ॥ २॥

वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।

श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३॥

षोढान्यासादयो देव्याः न्यासखण्डे समीरिताः ।

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४॥

महायागाक्रमश्चापि पूजाखण्डे समीरिताः ।

पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५॥

होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।

चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः ॥ ६॥

रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।

स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७॥

मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।

न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८॥

तत्र मे संशयो जातो हयग्रीव दयानिधे ।

किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥ ९॥

मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।

किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १०॥

सूत उवाच

इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।

प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ ११॥

श्रीहयग्रीव उवाच

लोपामुद्रापतेऽगस्त्य सावधानमनाः श‍ृणु ।

नाम्रां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ १२॥

रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा ।

पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३॥

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।

भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४॥

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।

श्रीमातृभक्तियुक्त्ताय श्रीविद्याराजवेदिने ॥ १५॥

उपासकाय शुद्धाय देयं नामसहस्रकम् ।

यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै ॥ १६॥

तन्त्रेषु ललितादव्यास्तेषु मुख्यमिदं मुने ।

श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ १७॥

पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।

श्रीविद्योपासकानां च यथा देवः परः शिवः ॥ १८॥

तथा नामसहस्रेषु परमेतत्प्रकीर्तितम् ।

यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ १९॥

अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।

श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २०॥

बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।

पद्यैवां तुलसीपुष्पैरेभिर्नामसहस्रकैः ॥ २१॥

सदा प्रसादं कुरुते तस्य सिंहासनेश्वरी ।

चक्राधिराजगभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२॥

जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।

जपस्ताद्यशक्तश्चेत्पठेन्नामसहस्रकम् ॥ २३॥

साङ्गार्चने साङ्गज्जपे यत्फलं तदाप्नुयात् ।

उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४॥

इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।

चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५॥

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।

भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६॥

तत्र हेतुं प्रवक्ष्यामि श‍ृणु त्वं कुम्भसम्भव ।

पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७॥

वाग्देवीर्वशिनीमुख्याः समाक्षेदमब्रवीत् ।

देव्युवाच

वाग्देवता वशिन्याद्याः श‍ृणुध्वं वचनं मम ॥ २८॥

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।

मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९॥

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।

मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३०॥

कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।

येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१॥

हयग्रीव उवाच

इत्याज्ञप्तास्ततो देव्यः श्रीदेव्या ललिताम्बया ।

रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२॥

रहस्यं नामसाहस्रमिति तद्विश्रुतं परम् ।

ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३॥

स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव ।

सेवार्थमागतास्तत्र त्वत्याणीस्रत्यकोटयः ॥ ३४॥

लक्ष्मीनारायणानां च कोटयः समुपागताः ।

गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५॥

मन्त्रिणीदण्डिनीमुख्याः सेवार्थं यास्समागताः ।

शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥ ३६॥

दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः ।

तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७॥

तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।

ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ ३८॥

उत्थाय वशिनीमुख्या बद्धांजलिपुटास्तदा ।

अस्तुवन्नामसाहस्रैः स्वकृतैर्लंलिताम्बिकाम् ॥ ३९॥

श्रुत्वा स्तवं प्रसन्नाऽभूल्ल्लिता परमेश्वरी ।

ते सर्वे विस्मयं जग्भुर्ये तत्र सदसि स्थिताः ॥ ४०॥

ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।

ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमानुऽत्तमम् ॥ ४१॥

अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।

तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२॥

प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ।

इदं नामसहस्रं मे यो। भक्तः पठते सकृत् ॥ ४३॥

स मे प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम् ।

श्रीचक्रे मां सदाभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४॥

पश्चान्नामसहस्रं मं कीर्तयेन्मम तुष्टये ।

मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५॥

कीर्तयेन्नामसहस्रमिदं मत्प्रीतये सदा ।

मत्प्रीत्या सकलान् कामांल्लभते नात्र संशयः ॥ ४६॥

तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।

श्रीहयग्रीव उवाच

इति श्रीललितेशानी शास्ति देवान्सहानुगान् ॥ ४७॥

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।

शक्तयो मन्त्रणीमुख्या इदं नामसहस्रकम् ॥ ४८॥

पठन्ति भक्त्या सततं ललितापरितुष्टये ।

तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९॥

आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।

इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया श‍ृणु ॥ ५०॥

इति ललितासहस्रनाम्न्युपोद्धातप्रकरणं समाप्तम् ॥

॥ न्यासः ॥

अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादयो वाग्देवता ऋषयः ।

अनुष्टुप् छन्दः । श्रीललिता परमेश्वरी देवता ।

श्रीमद्बाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः ।

शक्तिकूटेति कीलकम् । ध्यानम् ।

मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा

चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।

॥ करन्यासः ॥

ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।

सौः मध्यमाभ्यां नमः । सौः अनामिकाभ्यां नमः ।

क्लीं कनिष्ठिकाभ्यां नमः । ऐं करतलकरपृष्ठाभ्यां नमः ।

॥ अङ्गन्यासः ॥

ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् ।

सौः कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । ऐं अस्त्राय फट् ।

भूर्भवस्सुवरोमिति दिग्बन्धः ।

      ॥ ध्यानम् ॥

सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत्

तारा नायक शेखरां स्मितमुखीमापीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं

सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं

हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कारयुक्तां सतत मभयदां भक्तनम्रां भवानीं

श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्व सम्पत्प्रदात्रीम् ॥

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां

समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां

जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥

लमित्यादिपञ्चपूजा

“लं” पृथिवीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि ।

“हं” आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि ।

“यं” वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि ।

“रं” वह्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि ।

“वं” अमृततत्त्वामिकायै श्रीललितादेव्यै अमृतं महानैवेद्यं

परिकल्पयामि ।

“सं” सर्वतत्त्वात्मिकायै श्रीललितादेव्यै सर्वोपचारपूजां

परिकल्पयामि ।

(ततः पारायणं कुर्यात् ।)

       ॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥

(द्वितीया तापिनी कला १-१०० नामानि)

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।

चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १॥

उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।

रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥

मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।

निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ३॥

चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।

कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४॥

अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।

मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५॥

वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।

वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६॥

नवचम्पकपुष्पाभनासादण्डविराजिता ।

ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७॥

कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा ।

ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८॥

पद्मरागशिलादर्शपरिभाविकपोलभूः ।

नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ९॥ दशनच्छदा

शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।

कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥ १०॥

निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी । निजसंलाप

मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ११॥

अनाकलितसादृश्यचिबुकश्रीविराजिता । चुबुकश्री

कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२॥

कनकाङ्गदकेयूरकमनीयभुजान्विता ।

रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३॥

कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।

नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४॥

लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।

स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ १५॥

अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।

रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६॥

कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।

माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ १७॥

इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।

गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८॥

नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।

पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९॥

सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा । शिञ्जान

मरालीमन्दगमना महालावण्यशेवधिः ॥ २०॥

सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।

शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ २१॥

सुमेरुमध्यश‍ृङ्गस्था श्रीमन्नगरनायिका ।

चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ २२॥

महापद्माटवीसंस्था कदम्बवनवासिनी ।

सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३॥

देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।

भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ २४॥

सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।

अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ २५॥

चक्रराजरथारूढसर्वायुधपरिष्कृता ।

गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६॥

किरिचक्ररथारूढदण्डनाथापुरस्कृता ।

ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ २७॥

भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।

नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८॥

भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।

मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९॥

विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।

कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३०॥

महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।

भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१॥

कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।

महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२॥

कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।

ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३॥

हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।

श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४॥

कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।

शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५॥

मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।

कुलामृतैकरसिका कुलसङ्केतपालिनी ॥ ३६॥

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।

अकुला समयान्तस्था समयाचारतत्परा ॥ ३७॥

मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।

(तृतीया धूम्रिका कला १०१-२०० नामानि)

मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८॥

आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।

सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९॥

तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।

महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४०॥

भवानी भावनागम्या भवारण्यकुठारिका ।

भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ४१॥

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।

शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२॥

शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।

शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३॥

निर्लेपा निर्मला नित्या निराकारा निराकुला ।

निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४॥

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।

नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५॥

निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।

नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६॥

निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।

निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७॥

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।

निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८॥ निस्संशया

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।

निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९॥

निस्तुला नीलचिकुरा निरपाया निरत्यया ।

दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५०॥

दुष्टदूरा दुराचारशमनी दोषवर्जिता ।

सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१॥

(चतुर्थी मरीच्याख्या कला २०१-३०० नामानि)

सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।

सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२॥

सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।

माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ ५३॥

महारूपा महापूज्या महापातकनाशिनी ।

महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ ५४॥

महाभोगा महैश्वर्या महावीर्या महाबला ।

महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ ५५॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।

महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६॥

महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।

महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७॥

चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।

महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८॥

मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।

चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९॥

चराचरजगन्नाथा चक्रराजनिकेतना ।

पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६०॥

पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।

चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१॥

ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।

विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२॥

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।

सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३॥

संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।

सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ६४॥

भानुमण्डलमध्यस्था भैरवी भगमालिनी ।

पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५॥

उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।

सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६॥

आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।

निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७॥

श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।

सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८॥

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।

अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९॥

नारायणी नादरूपा नामरूपविवर्जिता ।

(पञ्चमी ज्वालिनी कला ३०१-४०० नामानि)

ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७०॥

राजराजार्चिता राज्ञी रम्या राजीवलोचना ।

रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१॥

रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।

रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२॥

काम्या कामकलारूपा कदम्बकुसुमप्रिया ।

कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३॥

कलावती कलालापा कान्ता कादम्बरीप्रिया ।

वरदा वामनयना वारुणीमदविह्वला ॥ ७४॥

विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।

विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।

क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६॥

विजया विमला वन्द्या वन्दारुजनवत्सला ।

वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ ७७॥

भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।

संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८॥ पाखण्डा

तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।

तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९॥

चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।

स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥ ८०॥

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।

मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१॥

कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।

श‍ृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२॥

ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।

रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३॥

सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।

षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४॥

नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।

नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५॥

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।

मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६॥

(षष्ठी रुच्याख्या कला ४०१-५०० नामानि)

व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी ।

महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७॥

भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।

शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८॥

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।

अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९॥

चिच्छक्तिश् चेतनारूपा जडशक्तिर्जडात्मिका ।

गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता ॥ ९०॥

तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ।

निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१॥ निस्सीम

मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।

चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२॥

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।

कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३॥

कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।

शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥ ९४॥

तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ।

मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५॥

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।

कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६॥

वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता ।

सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७॥

विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।

खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८॥

पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।

अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९॥

अनाहताब्जनिलया श्यामाभा वदनद्वया ।

दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥ १००॥

कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।

महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१॥

मणिपूराब्जनिलया वदनत्रयसंयुता ।

वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२॥

(सप्तमी सुषुम्णा कला ५०१-६०० नामानि)

रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।

समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३॥

स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।

शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४॥

मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।

दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५॥

मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता ।

अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६॥

मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।

आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १०७॥

मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।

हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८॥

सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।

सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १०९॥

सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।

स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ॥ ११०॥

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।

पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १११॥ मोचनी बर्बरालका

विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।

सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२॥

अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।

कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ ११३॥

ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।

मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४॥

नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।

मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ ११५॥

परा शक्तिः परा निष्ठा प्रज्ञानघनरूपिणी ।

माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ ११६॥

महाकैलासनिलया मृणालमृदुदोर्लता ।

महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ ११७॥

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।

श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८॥

कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।

शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥ ११९॥

हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।

दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२०॥

(अष्टमी भोगदा कला ६०१-७०० नामानि)

दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।

गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ॥ १२१॥

देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।

प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२॥

कलात्मिका कलानाथा काव्यालापविनोदिनी । विमोदिनी

सचामररमावाणीसव्यदक्षिणसेविता ॥ १२३॥

आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः ।

अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १२४॥

क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।

त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १२५॥

त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।

उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६॥

विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।

ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७॥

सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।

लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ॥ १२८॥

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।

योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९॥

इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।

सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १३०॥

अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी । अजाजेत्री

एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१॥

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।

बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२॥

भाषारूपा बृहत्सेना भावाभावविवर्जिता ।

सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३॥

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।

राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४॥

राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।

साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५॥

दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।

सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६॥

(नवमी विश्वा कला ७०१-८०० नामानि)

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।

सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७॥

सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।

सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १३८॥

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।

गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९॥

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।

सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४०॥

चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।

नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१॥

मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।

लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२॥

भवदावसुधावृष्टिः पापारण्यदवानला ।

दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३॥

भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।

रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १४४॥

महेश्वरी महाकाली महाग्रासा महाशना ।

अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५॥

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।

त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६॥

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।

ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७॥

दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।

महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८॥

वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।

प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९॥

मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः । मार्तण्ड

त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५०॥

सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।

कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१॥

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।

(दशमी बोधिनी कला ८०१-९०० नामानि)

पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२॥

परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।

पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ १५३॥

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।

सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४॥

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।

प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५॥

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।

विश‍ृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६॥

मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।

भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ १५७॥

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।

उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ १५८॥

जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।

सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥ १५९॥

गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।

कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ १६०॥

कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।

कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१॥

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।

अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ १६२॥

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।

निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३॥ सुधास्रुतिः

संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।

यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ १६४॥

धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।

विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६५॥

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।

अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ १६६॥

(एकादशी धारिणी कला ९०१-१००० नामानि)

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।

विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७॥

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।

सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ १६८॥ सोम्या

सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।

स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९॥

चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।

सदोदिता सदातुष्टा तरुणादित्यपाटला ॥ १७०॥

दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।

कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥ १७१॥

स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।

मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२॥

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।

प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३॥

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।

पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४॥

पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।

शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५॥

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।

लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६॥

बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।

सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७॥

सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।

बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८॥

दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।

ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ १७९॥

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।

अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८०॥

अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।

अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥ १८१॥

आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।

श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ १८२॥

श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।

एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥

॥ इति श्रीब्रह्माण्ड पुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे

श्रीललितासहस्रनामस्तोत्रकथनं सम्पूर्णम् ॥

फलश्रुतिः

(क्षमाख्या द्वादशी कला)

इत्येतन्नामसाहस्रं कथित ते घटोद्भव ।

रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १॥

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।

सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २॥

सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।

सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३॥

पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ।

इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४॥

जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ।

प्रातः स्नात्वा विधानेन क्त्वयाकर्म समाप्य च ॥ ५॥

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।

विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ॥ ६॥

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।

जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७॥

तस्य पुण्यफलं वक्ष्ये श‍ृणु त्वं कुम्भसम्भव ।

गङ्गादि सर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ॥ ८॥

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।

कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ ९॥

कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।

यः कोटिं हयमेधानामाहरेद् गात्ररोधसि ॥ १०॥

आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ।

दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११॥

श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान् ।

तत्पुण्यं कोटिगुणितं लभेत्पुण्यमनुत्तमम् ॥ १२॥

रहस्यनामसाहस्रे नाम्रोऽप्येकस्य कीर्तनात् ।

रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३॥

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।

नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४॥

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।

बहुनात्र किमुक्तेन श‍ृणु त्वं कुम्भसम्भव ॥ १५॥

अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।

तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६॥

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।

स हि शीतनिवृत्यर्थं हिमशैले निषेवते ॥ १७॥

भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।

तस्मै श्रीलितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८॥

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।

नित्यं सङ्कीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ॥ १९॥

संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।

नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २०॥

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।

पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१॥

पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।

सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति ॥ २२॥

अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।

ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३॥

तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।

सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४॥

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।

जलं सम्मन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५॥

अभिषिञ्चेद्ग्रहग्रस्तान्ग्रहा नश्यन्ति तत्क्षणात् ।

सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६॥

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।

वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७॥

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेदध्रुवम् ।

देव्याः पाशेन सम्बद्धाभाकृष्टाभङ्गुशेन च ॥ २८॥

ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।

आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९॥

राजाकर्षणकामश्चेद्भाजावसथदिङ्मुखः ।

त्रिरात्रं यः पठेतच्छ्रीदेवीध्यानत्परः ॥ ३०॥

स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।

आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१॥

तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।

रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२॥

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।

यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३॥

तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ।

यो वाऽभिचार कुरुते नामसाहस्रपाठकम् ॥ ३४॥

निवर्त्यं तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ॥ ।

ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५॥

तानन्धान्कुरुते क्षिप्रं स्वयं मार्तण्डभैरवः ।

धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६॥

यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ।

विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७॥

तस्य वाक्यतम्भनं सद्यः करोति नकुलेश्वरी ।

यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८॥

चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयम् ।

यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९॥

लक्ष्मीश्चान्धल्यरहिता सदा तिष्ठति तहृहे ।

मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४०॥

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।

यस्त्वेकवारं पतति पक्षमात्रमतन्द्रितः ॥ ४१॥

मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् ।

यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२॥

तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ।

यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३॥

अन्नं वस्नं धनं धान्यं नान्येभ्यस्तु कदाचन ।

श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४॥

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।

तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५॥

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।

पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६॥

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।

श्रीमन्त्रराजसदृशो यथा मन्रो न विद्यते ॥ ४७॥

देवता ललितातुल्या यथा नास्ति घटोद्भव ।

रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुति ॥ ४८॥

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।

समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९॥

बहुनात्र किमुक्तेना श‍ृणु त्वं कुम्भसम्भव ।

नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५०॥

तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।

एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ॥ ५१॥

पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।

चम्पकैर्जातिकुसुमैः मल्लिकाकरवीरकैः ॥ ५२॥

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।

अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३॥

तस्य पुण्यफलं वक्त्तुं न शक्रोति महेश्वरः ।

सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४॥

अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।

प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५॥

रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् ।

स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६॥

न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ।

महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७॥

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।

यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८॥

चक्रराजे महादेवीं तस्य पुण्यफलं श‍ृणु ।

सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९॥

पुत्रपौत्रादिसंयुक्तो भुक्त्या भोगान्यथेप्सितान् ।

अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६०॥

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।

यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः ॥ ६१॥

समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।

तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२॥

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।

निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३॥

ब्रह्यज्ञानमवाप्नोति येन मुच्येत बन्धनात् ।

धनार्थी धनमाप्नोति यशोऽर्थी चापुयाद्यशः ॥ ६४॥

विद्यार्थी चापुयाद्विद्यां नामसाहस्रकर्तिनात् ।

नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५॥

कीर्तनीयमिदं तस्मार्भोगमोक्षार्थिभिनरैः ।

चतुराश्रमनिष्ठैश्च कीर्तनीयमिदंसदा ॥ ६६॥

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।

कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७॥

नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ।

लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८॥

विष्णुनामसहस्राच्च शिवनामैकमुत्तमम् ।

शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥ ६९॥

देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।

तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७०॥

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।

तस्मात्सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७१॥

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।

विष्णुनामयपराः केच्छिवनामपराः पर ॥ ७२॥

न कश्चिदपि लोकेषु ललितानामतत्परः ।

येनान्य देवतानाम कीर्तितं जन्मकोटिषु ॥ ७३॥

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।

चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७४॥

नामसाहस्रपाठश्च तथा चरमजन्मनि ।

यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ ७५॥

तथैव विरलो गुह्यनामसाहस्रपाठकः ।

मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७६॥

रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।

अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७७॥

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।

रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७८॥

स भोजनं विना नूनं क्षुन्निचूत्तिमभीप्सति!

स भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ७९॥

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।

तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८०॥

इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८१॥

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।

पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८२॥

यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।

तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ॥ ८३॥

रहस्यनामसाहस्रं तस्मात्सङ्गोपयेदिदम् ।

स्वतन्त्रेण भया नोक्तं तवापि कलशोद्भव ॥ ८४॥

ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।

तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ८५॥

श्रीसूत उवाच

इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ।

आनन्दमग्रहृदयः सद्यः पुलकितोऽभवत् ॥ ८६॥

 

Posted in

Leave a Reply

Discover more from SriVidyaMaharnava

Subscribe now to keep reading and get access to the full archive.

Continue reading